धातुः इष्

गीतायाः प्रथमे अध्याये चतुर्थे श्लोके अस्ति वाक्यांशः “अत्र शूरा महेष्वासाः ”-इति |

महेष्वासाः =

  1. महान् इष्वासः यस्य सः महेष्वासः (बहुव्रीहिः) | तस्य प्रथमा विभक्तिः बहुवचनं च |

  2. इष्वासः –

    1. इषोः आसः इति इष्वासः

    2. इषुः = बाणः, शरः

      1. इषुः = इष् → उ

      2. उ = सनाशंसभिक्ष उः ३।२।१६८ इति सूत्रेण

        1. सन्नन्तेभ्यो धातुभ्यः आशंसेर् भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः।

        2. श्रीमतः “काशिनाथ अभ्यंकर”-महोदयानां संस्कृत-व्याकरणस्य शब्दकोशे – “.. उ = कृत्-प्रत्ययः added to bases ending in सन् and also to the roots  आशंस्, भिक्ष्, विद्, इष् ..”

  3. आसः = आसनम्, धनुष्यम्

    1. आसः = आस् → घञ्

This suggests two धातु-s inherent in इष्वास – इष् and आस्.

अत्र प्रथमं इष्-धातोः अभ्यासः |

धातुः इष्

अ) आपटे-महाभागस्य शब्दकोशे

  1. इष् 6 प. (इच्छति, इयेष, ऐषीत्, एषितुम्-एष्टुम्, इष्ट)

    1. To wish, desire, long for

    2. To choose

    3. To endeavour to obtain, strive or seek for

    4. etc.

  2. इष् 4 प. (इष्यति, इयेष, एषिष्यति, एषितुम्)

    1. To move, to cause to move

    2. To let fly, cast, throw

    3. To raise (as one’s voice)

    4. To sprinkle

  3. इष् 9 प. (इष्णाति)

    1. To cause to move quickly, let fly, cast

    2. To fly off, escape

    3. To strike, smite

    4. To impel, urge, incite, promote

  4. इष् 1 उ. (एषति-ते, ऐषीत्-ऐषीष्ट)

    1. To go, move

    In the context of इषुः = बाणः, शरः the meaning इष् 6 प. (इच्छति) is not relevant.

आ) धातुपाठसूच्याम्

  1. इष् | दि० सेट् प० | इष [ईष] गतौ ४. २२ ||

  2. इष् | तु० सेट् प० | इष (इषु) इच्छायाम् ६. ७८ ||

  3. इष् | क्र्या० सेट् प० | इष आभीक्ष्ण्ये ९. ६१

इ) बृहद्धातुरूपावल्याम् –

1. तत्र धातुकोशे

  1. इष = गतौ [४०१] ४ । सक. । सेट् | प. | इष्यति | इषीका | इष्टका | इषुर्बाणः |

  2. इष = आभीक्ष्ण्ये | ९ । सक. । सेट् | प. |

(१) लटि इष्णाति

(२) लोटि इष्णातु |

(३) लङ्-लकारे – ऐष्णात् |

(४) विधिलिङ्-लकारे – इष्णीयात् |

आर्धधातुके ‘इष्यति’ (४०१) वत् | एषितव्यम्-एष्टव्यम् | इष्टः | इष्णन् | एषितुम्-एष्टुम् | एषित्वा

  1. इष = इच्छायाम् [५०६] ६ । सक. । सेट् | प. | इच्छति |

  2. इषुध = शरधारणे । ११ । इषुध्यति ।

2. धातुरूपावल्याम्

[४०१] इष = गतौ ४ । सक. । सेट् | प. |

(१) लटि – इष्यति |  (२) लोटि – इष्यतु | (३) लङ्-लकारे – ऐष्यत् | (४) विधिलिङ्-लकारे – इष्येत् | (५) लिट्-लकारे – (प्र.) इयेष | ईषतुः | (म.) इयेषिथ | (उ.) इयेष | ईषिव | (६) लुट्-लकारे – एषिता | (७) लृट्-लकारे – एषिष्यति | (८) आशीर्लिङ्-लकारे – इष्यात् | (९) लुङ्-लकारे – ऐषीत् | (१०) लृङ्-लकारे –  ऐषिष्यत् |

कर्मणि – इष्यते | णिचि – एषयति-ते | सनि – एषिषिषति |

कृत्सु – एषितव्यम् | एषणीयम् | एष्यम् | इषितः | इष्यन् | एषितुम् | एषणम् | एषित्वा | प्रेष्य | एषणा | अन्वेषणा | पर्येषणा | परीष्टिः | प्रैषः | प्रैष्यः | अन्वेषयति |

(ई) लकारेषु रूपाणि – Inflections from http://sanskrit.uohyd.ernet.in/scl/skt_gen/generators.html

No details of words found.

(उ) कृदव्ययानि कृदन्त-प्रातिपदिकानि च – from http://sanskrit.uohyd.ernet.in/scl/skt_gen/generators.html

No details of words found.

(ऊ) Words from धातुः इष्

1. इषुः = बाणः, शरः

-o-O-o-